bhagirathi gadyam || भागीरथीगद्यम् || Bhaagavata
ಶ್ರೀಮದ್ಭಾಗವತದ ಪಂಚಮ ಸ್ಕಂಧದಲ್ಲಿ ಶುಕಾಚಾರ್ಯರು ಹೇಳಿದ ಭಾಗೀರಥೀಗದ್ಯ
bhagirathi gadya, as told by shukaacharya from the 5th canto of srimadbhaagavata
अथ भागीरथीगद्यं
श्रीशुक उवाच
तत्र भगवतः साक्षाद् यज्ञलिंगस्य विष्णोर्विक्रमतो वामपादांगुष्ठनखनिर्भिन्नोर्ध्वांडकटाहविवरेण अंतःप्रविष्टा या बाह्यजलधारा तच्चरणपंकजावनेजनारुण- किंजल्कोपरंजिताखिलजगदघमलापहा
उपस्पर्शनामला साक्षात् भगवत्पदीत्यनुपलक्षितवचोभिरभिधीयमाना अतिमहता कालेन युगसहस्त्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः यत्र ह वाव वीरव्रत
औत्तानपादिः परमभागवतः अस्मत्कुलदेवताचरणारविंदोदकं इति यां अनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानांतहृदय
औत्कंठ्यविवशामीलितलोचनयुगल- कुड्मलविगलितामलबाष्पकलया अभिव्यज्यमानरोमपुलककुलक अधुनापि परमादरेण शिरसा बिभर्ति ॥1॥
तत्र सप्तऋषयस्तत्प्रभावज्ञा ननु (इयं नु) तपस आत्यंतिकी सिद्धिरेतावतीति भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोग- लाभेनैव
उपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षवः सबहुमानमेनामद्यापि जटाजूटैरुद्वहंति ॥2॥
ततः अनेकसहस्रकोटिविमानानीकसंकुलदेवयानेन अवतरंती इंदुमंडलमाप्लाव्य ब्रह्मसदने निपतति तत्र चतुर्धाभिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यंदती
नदनदीपतिमेवाभिनिविशते ‘सीता अलकनंदा चक्षुः भद्रा’ इति ॥3॥
सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोऽधःपतंती गंधमादनमूर्ध्नि पतित्वांतरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति
एवं माल्यवच्छिखरान्निष्पतंती अनुपरतवेगा केतुमालमभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात्
गिरिशिखरमतिहाय शृंगवतः शृंगादभिस्यंदमाना उत्तरांस्तु कुरून् अतिक्रम्य उदीच्यां दिशि लवणार्णवं प्रविशति तथैवालकनंदा दक्षिणेन तु ब्रह्मसदनाद्
बहूनि गिरिकूटान्यतिक्रम्य हेमकूटहिमकूटानि अतितररभसरंहसा लुठंती भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति ॥4॥
॥ इति भागवते पंचमस्कंधे भागीरथीगद्यं ॥
Видео bhagirathi gadyam || भागीरथीगद्यम् || Bhaagavata канала Daasoham

Показать
Комментарии отсутствуют
Информация о видео
Другие видео канала
Satyakama Gurugala Node | Sri Satyakama Teertharu (Atakuru)Yugadi (Plava) | Three note raga ॥ ಪ್ಲವ ಸಂವತ್ಸರದ ಯುಗಾದಿ ಶುಭಾಶಯಗಳುSankranti ShubhashayagaluJanmadinam Shubhamastu Sadaa|| जन्मदिनं शुभमस्तु सदा ||ಮೊದಲಕಲ್ಲು ಶೇಷದಾಸರ ಸ್ತುತಿ | Sri Sheshadasarya Stuti | Karanam Venkataraya Virachitamश्रीविजयदासविरचित श्रीनरसिंह सुळादि ॥ वेणुगोपाल खटाव्कर्Vijayadashami ShubhashayagaluSurya Dwadasha Nama Stotram॥ सूर्याद्वादशनामस्तोत्रम् ॥ ಸೂರ್ಯದ್ವಾದಶನಾಮಸ್ತೋತ್ರಮ್Karunadindali || Shri Satyanatha Teertharu ||ಜಿತಂತೇ ಸ್ತೋತ್ರಮ್- ಅಧ್ಯಾಯ ೩ | Jitante Stotram - Adhyaya 3Sri Satyapriya Ashtakam | ManamaduraiHarikathamrutasara - 26 | Avarohana Taratamya Sandhi | ಅವರೋಹಣ ತಾರತಮ್ಯ ಸಂಧಿshri satyasantushtastuti || ಶ್ರೀಸತ್ಯಸಂತುಷ್ಟಸ್ತುತಿಪಂಚಕಮ್ || श्रीसत्यसंतुष्टस्तुतिपंचकम् ||Namma Maneyalondu Putta Ganapaniruvanu || Kids Rhyme || With Lyrics in 5 languages (CC)Hari Sarvottama Vayu Jeevottama | Chant | ಹರಿ ಸರ್ವೋತ್ತಮ ವಾಯು ಜೀವೋತ್ತಮBidade Nimmanu Poojisuva DaasarigeSri Vijaya Dasarya Stuti | With Lyricsశ్రీవిజయదాస విరచిత శ్రీనరసింహ సుళాది ॥ వేణుగోపాల ఖటావ్కర్Sadachara Smriti | Sri Vadiraja Teertha virachitaśrīvijayadāsa viracita śrīnarasiṃha sul̤ādi ॥ veṇugopāla khaṭāvkar